द्वादशज्योतिर्लिङ्गस्तोत्रम्

द्वादशज्योतिर्लिङ्गस्तोत्रम्


सौराष्ट्रदेशे विशदेऽतिरम्ये 
ज्योतिर्मयं चन्द्रकलावतंसम् |
भक्तिप्रदानाय कृपावतीर्णं 
तं सोमनाथं शरणं प्रपद्ये ||१||

श्रीशैलश्रृङ्गे विबुधातिसङ्गे 
तुलाद्रितुङ्गेऽपि मुदा वसन्तम् |
तमर्जुनं मल्लिकपूर्वमेकं 
नमामि संसारसमुद्रसेतुम् ||२||

अवन्तिकायां विहितावतारं
मुक्तिप्रदानाय च सज्जनानाम् |
अकालमृत्योः परिरक्षणार्थं
वन्दे महाकालमहासुरेशम् ||३||

कावेरिकानर्मदयोः पवित्रे
समागमे सज्जनतारणाय |
सदैव मान्धातृपुरे वसन्त-
मोङ्कारमीशं शिवमेकमीडे ||४||

पूर्वोत्तरे प्रज्वलिकानिधाने
सदा वसन्तं गिरिजासमेतम् |
सुरासुराराधितपादपद्मं
श्रीवैद्यनाथं तमहं नमामि ||५||

याम्ये सदङ्गे नगरेऽतिरम्ये
विभूषिताङ्गं विविधैश्च भोगैः |
सद्भक्तिमुक्तिप्रदमीशमेकं
श्रीनागनाथं शरणं प्रपद्ये ||६||

महाद्रिपार्श्वे च तटे रमन्तं
सम्पूज्यमानं सततं मुनीन्द्रैः |
सुरासुरैर्यक्षमहोरगाद्यैः
केदारमीशं शिवमेकमीडे ||७||

सह्याद्रिशीर्षे विमले वसन्तं
गोदावरीतीरपवित्रदेशे |
यद्यर्शनात्पातकमाशु नाशं
प्रयाति तं त्र्यम्बकमीशमीडे ||८||

सुताम्रपर्णीजलराशियोगे
निबध्य सेतुं विशिखैरसंख्यैः |
श्रीरामचन्द्रेण समर्पितं तं
रामेश्वराख्यं नियतं नमामि ||९||

यं डाकिनीशाकिनिकासमाजे
निषेव्यमाणं पिशिताशनैश्च |
सदैव भीमादिपदप्रसिद्धं
तं शङ्करं भक्तहितं नमामि ||१०||

सानन्दमानन्दवने वसन्त-
मानन्दकन्दं हतपापवृन्दम् |
वाराणसीनाथमनाथनाथं
श्रीविश्वनाथं शरणं प्रपद्ये ||११||

इलापुरे रम्यविशालकेऽस्मिन्
समुल्लसन्तं च जगद्वरेण्यम् |
वन्दे महोदारतरस्वभावं
घृष्णेश्वराख्यं शरणं प्रपद्ये ||१२||

ज्योतिर्मयद्वादशलिङ्गकानां
शिवात्मनां प्रोक्तमिदं क्रमेण |
स्तोत्रं पठित्वा मनुजोऽतिभक्त्या
फलं तदालोक्य निजं भजेच्च ||१३||

|| इति श्रीद्वादशज्योतिर्लिङ्गस्तोत्रं सम्पूर्णम्  ||

Comments

Popular posts from this blog

पांडवों की मशाल

इंग्लैंड की नदी में देवनागरी लिपि के शिलालेख

सुविचार